हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Angaraka (Mangal) Kavacham – श्री अङ्गारक कवचम्


अस्य श्रीअङ्गारक कवचस्तोत्र मन्त्रस्य विरूपाक्ष ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता, अं बीजं, गं शक्तिः, रं कीलकं, मम अङ्गारकग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः –
आं अङ्गुष्ठाभ्यां नमः ।
ईं तर्जनीभ्यां नमः ।
ऊं मध्यमाभ्यां नमः ।
ऐं अनामिकाभ्यां नमः ।
औं कनिष्ठिकाभ्यां नमः ।
अः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
आं हृदयाय नमः ।
ईं शिरसे स्वाहा ।
ऊं शिखायै वषट् ।
ऐं कवचाय हुम् ।
औं नेत्रत्रयाय वौषट् ।
अः अस्त्राय फट् ।

ध्यानम् –
नमाम्यङ्गारकं देवं रक्ताङ्गं वरभूषणं
जानुस्थं वामहस्ताभ्यां चापेषुवरपाणिनम् ।
चतुर्भुजं मेषवाहं वरदं वसुधाप्रियं
शक्तिशूलगदाखड्गं ज्वालपुञ्जोर्ध्वकेशकम् ॥

मेरुं प्रदक्षिणं कृत्वा सर्वदेवात्मसिद्धिदम् ।

अथ कवचम् –
अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः ।
कर्णौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥ १ ॥

नासिकां मे शक्तिधरः कण्ठं मे पातु भौमकः ।
भुजौ तु रक्तमाली च हस्तौ शूलधरस्तथा ॥ २ ॥

चतुर्भुजो मे हृदयं कुक्षिं रोगापहारकः ।
कटिं मे भूमिजः पातु ऊरू पातु गदाधरः ॥ ३ ॥

जानुजङ्घे कुजः पातु पादौ भौमः सदा मम ।
सर्वाणि यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥ ४ ॥

य इदं कवचं दिव्यं सर्वशत्रुविनाशनम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥ ५ ॥

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् ॥ ६ ॥

ऋणबन्धनमुक्तिर्वै सत्यमेव न संशयः ।
स्तोत्रपाठस्तु कर्तव्यो देवस्याग्रे समाहितः ॥ ७ ॥

रक्तगन्धाक्षतैः पुष्पैर्धूपदीपगुडोदनैः ।
मङ्गलं पूजयित्वा तु मङ्गलेऽहनि सर्वदा ॥ ८ ॥

ब्राह्मणान्भोजयेत्पश्चाच्चतुरो द्वादशाथवा ।
अनेन विधिना यस्तु कृत्वा व्रतमनुत्तमम् ॥ ९ ॥

व्रतं तदेवं कुर्वीत सप्तवारेषु वा यदि ।
तेषां शस्त्राण्युत्पलानि वह्निः स्याच्चन्द्रशीतलः ॥ १० ॥

न चैनं व्यथयन्त्यस्मान्मृगपक्षिगजादयः ।
महान्धतमसे प्राप्रे मार्ताण्डस्योदयादिव ।
विलयं यान्ति पापानि शतजन्मार्जितानि वै ॥ ११ ॥

इति श्री अङ्गारक कवचम् ।


Navagraha Stotras – नवग्रह स्तोत्राणि

Navagraha Stotras – नवग्रह स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.